Advertisement

Responsive Advertisement

Charak Nidan Chapter 6 shosh(rajyakshama)Nidanam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातःशोषनिदानंव्याख्यास्यामः||||

इतिहस्माहभगवानात्रेयः||||

इहखलुचत्वारिशोषस्यायतनानिभवन्ति|

तद्यथा- साहसंसन्धारणंक्षयोविषमाशनमिति||||

तत्रसाहसंशोषस्यायतनमितियदुक्तंतदनुव्याख्यास्यामः-

यदापुरुषोदुर्बलोहिसन्बलवतासहविगृह्णाति, अतिमहतावाधनुषाव्यायच्छति, जल्पतिवाऽप्यतिमात्रम्, अतिमात्रंवाभारमुद्वहति, अप्सुवाप्लवतेचातिदूरम्, उत्सादनपदाघातनेवाऽतिप्रगाढमासेवते, अतिप्रकृष्टंवाऽध्वानंद्रुतमभिपतति, अभिहन्यतेवा, अन्यद्वाकिञ्चिदेवंविधंविषममतिमात्रंवाव्यायामजातमारभते, तस्यातिमात्रेणकर्मणोरःक्षण्यते|

तस्योरःक्षतमुपप्लवतेवायुः|

सतत्रावस्थितःश्लेष्माणमुरःस्थमुपसङ्गृह्यपित्तंचदूषयन्विहरत्यूर्ध्वमधस्तिर्यक्च|

तस्ययोंऽशःशरीरसन्धीनाविशतितेनास्यजृम्भाऽङ्गमर्दोज्वरश्चोपजायते, यस्त्वामाशयमभ्युपैतितेनरोगाभवन्तिउरस्याअरोचकश्चयःकण्ठमभिप्रपद्यतेकण्ठस्तेनोद्ध्वंस्यतेस्वरश्चावसीदति, यः प्राणवहानिस्रोतांस्यन्वेतितेनश्वासःप्रतिश्यायश्चजायते, यःशिरस्यवतिष्ठतेशिरस्तेनोपहन्यते|

ततःक्षणनाच्चैवोरसोविषमगतित्वाच्चवायोःकण्ठस्यचोद्ध्वंसनात्कासःसततमस्यसञ्जायते, सकासप्रसङ्गादुरसिक्षतेशोणितंष्ठीवति, शोणितागमनाच्चास्यदौर्बल्यमुपजायते; एवमेतेसाहसप्रभवाःसाहसिकमुपद्रवाःस्पृशन्ति|

ततःसउपशोषणैरेतैरुपद्रवैरुपद्रुतःशनैःशनैरुपशुष्यति|

तस्मात्पुरुषोमतिमान्बलमात्मनःसमीक्ष्यतदनुरूपाणिकर्माण्यारभेतकर्तुं|

बलसमाधानंहिशरीरं, शरीरमूलश्चपुरुषइति||||

भवतिचात्र-

साहसंवर्जयेत्कर्मरक्षञ्जीवितमात्मनः|

जीवन्हिपुरुषस्त्विष्टंकर्मणःफलमश्नुते||||

सन्धारणंशोषस्यायतनमितियदुक्तंतदनुव्याख्यास्यामः-

यदापुरुषोराजसमीपेभर्तुःसमीपेवागुरोर्वापादमूलेद्यूतसभमन्यंवासतांसमाजंस्त्रीमध्यंवासमनुप्रविश्ययानैर्वाऽ प्युच्चावचैरभियान्भयात्प्रसङ्गाद्ध्रीमत्त्वाद्धृणित्वाद्वानिरुणद्ध्यागतान्वातमूत्रपुरीषवेगान्तदातस्यसन्धारणाद्वायुःप्रकोपमापद्यते, सप्रकुपितःपित्तश्लेष्माणौसमुदीर्योर्ध्वमधस्तिर्यक्चविहरति; ततश्चांशविशेषेणपूर्ववच्छरीरावयवविशेषंप्रविश्यशूलमुपजनयति, भिनत्तिपुरीषमुच्छोषयतिवा, पार्श्वेचातिरुजति, अंसाववमृद्गाति, कण्ठमुरश्चावधमति, शिरश्चोपहन्ति, कासंश्वासंज्वरंस्वरभेदंप्रतिश्यायंचोपजनयति|

ततःसउपशोषणैरेतैरुपद्रवैरुपद्रुतःशनैःशनैरुपशुष्यति|

तस्मात्पुरुषोमतिमानात्मनःशारीरेष्वेवयोगक्षेमकरेषुप्रयतेतविशेषेण; शरीरंह्यस्यमूलं, शरीरमूलश्चपुरुषोभवति||||

भवतिचात्र-

सर्वमन्यत्परित्यज्यशरीरमनुपालयेत्|

तदभावेहिभावानांसर्वाभावःशरीरिणाम्||||

क्षयःशोषस्यायतनमितियदुक्तंतदनुव्याख्यास्यामः-

यदापुरुषोऽतिमात्रंशोकचिन्तापरिगतहृदयोभवति, ईर्ष्योत्कण्ठाभयक्रोधादिभिर्वासमाविश्यते, कृशोवासन्रूक्षान्नपानसेवीभवति, दुर्बलप्रकृतिरनाहारोऽल्पाहारोवाभवति, तदातस्यहृदयस्थायीरसःक्षयमुपैति; सतस्योपक्षयाच्छोषंप्राप्नोति, अप्रतीकाराच्चानुबध्यतेयक्ष्मणा |

यथोपदेक्ष्यमाणरूपेण||

यदावापुरुषोऽतिहर्षादतिप्रसक्तभावःस्त्रीष्वतिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गाद्रेतःक्षयमेति|

क्षयमपिचोपगच्छतिरेतसियदिमनःस्त्रीभ्योनैवास्यनिवर्तते, तस्यचातिप्रणीतसङ्कल्पस्यमैथुनमापद्यमानस्यनशुक्रंप्रवर्ततेऽतिमात्रोपक्षीणरेतस्त्वात्, तथाऽस्यवायुर्व्यायच्छमानशरीरस्यैवधमनीरनुप्रविश्यशोणितवाहिनीस्ताभ्यःशोणितंप्रच्यावयति, तच्छुक्रक्षयादस्यपुनःशुक्रमार्गेणशोणितंप्रवर्ततेवातानुसृतलिङ्गम्|

अथास्यशुक्रक्षयाच्छोणितप्रवर्तनाच्चसन्धयःशिथिलीभवन्ति, रौक्ष्यमुपजायते, भूयःशरीरंदौर्बल्यमाविशतिवायुःप्रकोपमापद्यते; सप्रकुपितोवशिकंशरीरमनुसर्पन्नुदीर्यश्लेष्मपित्तेपरिशोषयतिमांसशोणिते, प्रच्यावयतिश्लेष्मपित्तेसंरुजतिपार्श्वे, अवमृद्गात्यंसौकण्ठमुद्ध्वंसति, शिरःश्लेष्माणमुपत्क्लेश्यप्रतिपूरयतिश्लेष्मणा, सन्धींश्चप्रपीडयन्करोत्यङ्गमर्दमरोचकाविपाकौच, पित्तश्लेष्मोत्क्लेशात्प्रतिलोमगत्वाच्चवायुर्ज्वरंकासंश्वासंस्वरभेदंप्रतिश्यायंचोपजनयति;सकासप्रसङ्गादुरसिक्षतेशोणितंष्ठीवति,शोणितगमनाच्चास्यदौर्बल्यमुपजायते, ततःसउपशोषणैरेतैरुपद्रवैरुपद्रुतःशनैःशनैरुपशुष्यति| तस्मात्पुरुषोमतिमानात्मनः|

शरीरमनुरक्षञ्छुक्रमनुरक्षेत्| पराह्येषाफलनिर्वृत्तिराहारस्येति||||

भवतिचात्र-

आहारस्यपरंधामशुक्रंतद्रक्ष्यमात्मनः|

क्षयोह्यस्यबहून्रोगान्मरणंवानियच्छति||||

विषमाशनंशोषस्यायतनमितियदुक्तं,तदनुव्याख्यास्यामः-

यदापुरुषःपानाशनभक्ष्यलेह्योपयोगान्प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयविषमानासेवते, तदातस्यतेभ्योवातपित्तश्लेष्माणोवैषम्यमापद्यन्ते; तेविषमाःशरीरमनुसृत्ययदास्रोतसामयनमुखानिप्रतिवार्यावतिष्ठन्तेतदाजन्तुर्यद्यदाहारजातमाहरतितत्तदस्यमूत्रपुरीषमेवोपजायतेभूयिष्ठंनान्यस्तथाशरीरधातुः; सपुरीषोपष्टम्भाद्वर्तयति, तस्माच्छुष्यतोविशेषेणपुरीषमनुरक्ष्यंतथाऽन्येषामतिकृशदुर्बलानां; तस्यानाप्यायमानस्यविषमाशनोपचितादोषाःपृथक्पृथगुपद्रवैर्युञ्जन्तोभूयःशरीरमुपशोषयन्ति|

तत्रवातःशूलमङ्गमर्दंकण्ठोद्ध्वंसनंपार्श्वसंरुजनमंसावमर्दंस्वरभेदंप्रतिश्यायंचोपजनयति; पित्तंज्वरमतीसारमन्तर्दाहंच; श्लेष्मातुप्रतिश्यायंशिरसोगुरुत्वमरोचकंकासंच, सकासप्रसङ्गादुरसिक्षतेशोणितंनिष्ठीवति,शोणितगमनाच्चास्यदौर्बल्यमुपजायते|

एवमेतेविषमाशनोपचितास्त्रयोदोषाराजयक्ष्याणमभिनिर्वर्तयन्ति|

सतैरुपशोषणैरुपद्रवैरुपद्रुतःशनैःशनैःशुष्यति|

तस्मात्पुरुषोमतिमान्प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयादविषममाहारमाहरेत्||१०||

भवतिचात्र-

हिताशीस्यान्मिताशीस्यात्कालभोजीजितेन्द्रियः|

पश्यन्रोगान्बहून्कष्टान्बुद्धिमान्विषमाशनात्||११||

एतैश्चतुर्भिःशोषस्यायतनैरुपसेवितैर्वातपित्तश्लेष्माणःप्रकोपमापद्यन्ते|

तेप्रकुपितानानाविधैरुपद्रवैःशरीरमुपशोषयन्ति|

तंसर्वरोगाणांकष्टतमत्वाद्राजयक्ष्माणमाचक्षतेभिषजः;

यस्माद्वापूर्वमासीद्भगवतःसोमस्योडुराजस्यतस्माद्राजयक्ष्मेति||१२||

तस्येमानिपूर्वरूपाणिभवन्ति; तद्यथा- प्रतिश्यायः, क्षवथुरभीक्ष्णं, श्लेष्मप्रसेकः, मुखमाधुर्यम्, अनन्नाभिलाषः, अन्नकालेचायासः, दोषदर्शनमदोषेष्वल्पदोषेषुवाभावेषुपात्रोदकान्नसूपापूपोपदंशपरिवेशकेषु, भुक्तवतश्चास्यहृल्लासः, तथोल्लेखनमप्याहारस्यान्तरान्तरा, मुखस्यपादयोश्चशोफःपाण्योश्चावेक्षणमत्यर्थम्, अक्ष्णोःश्वेतावभासताचातिमात्रं, बाह्वोश्चप्रमाणजिज्ञासा, स्त्रीकामता,निर्घृणित्वं, बीभत्सदर्शनताचास्यकाये, स्वप्नेचाभीक्ष्णंदर्शनमनुदकानामुदकस्थानानांशून्यानांचग्रामनगरनिगमजनपदानांशुष्कदग्धभग्नानांचवनानांकृकलासमयूरवानरशुकसर्पकाकोलूकादिभिः संस्पर्शनमधिरोहणंयानंवाश्वोष्ट्रखरवराहैःकेशास्थिभस्मतुषाङ्गारराशीनांचाधिरोहणमिति (शोषपूर्वरूपाणिभवन्ति)||१३||

अतऊर्ध्वमेकादशरूपाणितस्यभवन्ति; तद्यथा- शिरसःपरिपूर्णत्वं, कासः, श्वासः, स्वरभेदः, श्लेष्मणश्छर्दनं, शोणितष्ठीवनं, पार्श्वसंरोजनम्, अंसावमर्दः, ज्वरः, अतीसारः, अरोचकश्चेति||१४||

तत्रापरिक्षीणबलमांसशोणितोबलवानजातारिष्टःसर्वैरपिशोषलिङ्गैरुपद्रुतःसाध्योज्ञेयः| बलवानुपचितोहिसहत्वाद्व्याध्यौषधबलस्यकामंसुबहुलिङ्गोऽप्यल्पलिङ्गएवमन्तव्यः||१५||

दुर्बलंत्वतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपिबहुलिङ्गंजातारिष्टंचविद्यात्, असहत्वाद्व्याध्यौषधबलस्य; तंपरिवर्जयेत्, क्षणेनैवहिप्रादुर्भवन्त्यरिष्टानि, अनिमित्तश्चारिष्टप्रादुर्भावइति||१६||

तत्रश्लोकः- समुत्थानंचलिङ्गंचयःशोषस्यावबुध्यते| पूर्वरूपंचतत्त्वेनसराज्ञःकर्तुमर्हति||१७||

 

Post a Comment

0 Comments